पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी । नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ २२
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम । किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ॥ २३
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका । अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः ।। २४
संबुध्ये चाहमात्मानमिमं चापि वनौकसम् । इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥ २५
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् । एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥ २६
न प्रतिव्याजहाराथ वानरं जनकात्मजा । सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ॥ २७
श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् । आदित्य इव तेजस्वी लोककान्तः शशी यथा ॥ २८
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ! विक्रमेणोपपन्नश्च यथा विष्णुमहायशाः॥ २९
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा । रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥ ३०
स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः । बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।। ३१
अपकृष्याश्रमपदान्मृगरूपेण राघवम् । शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत् फलम् ॥ ३२
नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् । रोषप्रमुक्तैरिपुभिर्ज्वलद्भिरिव पावकैः ॥ ३३
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः । त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ ३४
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः । अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥ ३५
रामस्य च सखा देवि सुग्रीवो नाम वानरः । गजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६
नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः । दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ३७
नचिराद्द्र्क्ष्यसे राम लक्ष्मणं च महाबलम् । मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। ३८
अहं सुग्रीवसचिवो हनुमान्नाम वानरः । प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३९
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः । त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ४०
नाहमस्मि तथा देवि यथा मामवगच्छसि । विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ४१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे रावणशङ्कानिवारणं नाम चनुस्त्रिंशः सर्गः

पञ्चत्रिंशः सर्गः
विश्वासोत्पादनम्
सां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् । उवाच वचनं सौम्यमिदं मधुरया गिरा॥ १