पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रक्षसापहृता भार्या रावणेन दुरात्मना । द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।। ३१
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ३२
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे हनूमज्जानकीसंवादो नाम त्रयस्त्रिंशः सर्गः

चतुस्त्रिंशः सर्गः
रावणशङ्कानिवारणम्
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः । दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। १
अहं रामस्य संदेशाद्देवि दूतस्ववागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्।। २
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। ३
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ४
सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीतिसंहष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ६
तया समागते तस्मिन् प्रीतिरुत्पादिताद्भुता । परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। ७
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः । सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ८
यथा यथा समीपं स हनुमानुपसर्पति । तथा तथा रावणं सा तं सीता परिशङ्कते ।। ९
अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे । रूपान्तरमुपागम्य स एवायं हि रावणः ।। १०
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता । तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। ११
हनुमानपि दुःखार्ता तां दृष्टा भयमोहिताम् । अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।। १२
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत । तं दृष्टा वन्दमानं तु सीता शशिनिभानना ॥ १३
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा । मायां प्रविष्टो मयावी यदि त्वं रावणः स्वयम् ॥ १४
उत्पादयसि मे भूयः संतापं तन्न शोभनम् । स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।। १५
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः । उपवासकृशां दीनां कामरूप निशाचर ।। १६
संतापयसि मां भूयः संतप्तां तन्न शोभनम् । अथवा नैतदेवं हि यन्मया परिशङ्कितम् ॥ १७
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् । यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते । १८
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे । गुणान् रामस्य कथय प्रियस्य मम वानर ।। १९
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः । अहो स्वमस्य सुखता याहमेचं चिराहृता ।। २०
प्रेषितं नाम पश्यामि राघवेण वनौकसम् । स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।। २१