पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ।। ६
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ७
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।
चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ८
स्वप्ने मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ९
स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकन दुःखेन च पीडितायाः।
सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन । १०।
रामेति रामेति सदैव बुद्धया विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तमर्थमेवं प्रपश्यामि तथा शृणोमि । ११।
अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि यथा शृणोमि ।। १२
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।
कि कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ १३
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥ १४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे सीतावितर्को नाम द्वात्रिंशः

त्रयस्त्रिंशः सर्गः
हनूमज्जानकीसंवादोपक्रमः
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ १
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। २
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ३
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ४