पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ६
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता । रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ ७
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा धीरः प्रव्राजितो वनम् ॥ ८
तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ९
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । ततस्त्वमर्षापहृता जानकी रावणेन तु ।। १०
वञ्चयित्वा वने राम मृगरूपेण मायया । स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।। ११
आससाद वने मित्र सुग्रीवं नाम वानरम् । ततः स वालिनं हत्वा रामः परपुरंजयः॥ १२
प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः । सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ।। १३
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः । अहं संपातिवचनाच्छतयोजनमायतम् ॥ १४
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः । यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ॥ १५
अश्रौषं राघवस्याहं सेयमासादिता मया । विररामैवमुक्त्वासौ वाचं वानरपुंगवः ।। १६
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।
उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत ।। १७
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। १८
सा तिर्यगूर्ध्वं च तथाप्यधस्तानिरीक्षमाणा समचिन्त्यबुद्धिम् ।
ददर्श पिङ्गाधिपतेरमात्यं वानात्मजं सूर्यमिवोदयस्थम् ॥ १९
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे रामवृत्तसंश्रवो नाम एकत्रिंशः सर्गः

द्वात्रिंशः मर्गः
सीतावितर्कः
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। १
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ २
मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीममिदं रूपं वानरस्य दुरासदम् ॥ ३
दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा । विललाप भृशं सीता करुणं भयमोहिता ।। ४
राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी । रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ ५