पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विपन्नं स्यात्ततः कार्य रामसुग्रीवयोरिदम् । उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ॥
सागरेण परिक्षिप्ते गुप्ते वसति जानकी । विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। ३२
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने । विमृशंश्च न पश्यामि यो हते मयि वानरः ।। ३३
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम । कामं हन्तुं समर्थोऽरिम सहस्राण्यपि रक्षसाम् ।। ३४
न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः । असत्यानि च युद्धानि संशयो मे न रोचते ।। ३५
कश्च निःसंशयं कार्य कुर्यात् प्राज्ञः ससंशयम् । प्राणत्यागश्च वैदेह्या भवेदनभिभापणे ॥ ३६
एष दोषो महान् हि स्यान्मम सीताभिभाषणे । भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ ३७
विक्लवं दूतमासाद्य तमः सूर्योदये यथा । अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।। ३८
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः । न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।। ३९
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् । कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ॥ ४०
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् । रममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ॥ ४१
नैनामुद्वेजयिष्यामि तद्वन्धुगतमानसाम् । इक्ष्वाकूणां वरिष्ठस्य रामम्य विदितात्मनः ।। ४२
शुभानि धर्मयुक्तानि वचनानि समर्पयन् । श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।। ४३
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे हनुमत्कृत्याकृत्यविचिन्तनं नाम त्रिशः सर्गः

एकत्रिंशः सर्गः
रामवृत्तसंश्रवः
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संभवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ १
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः॥ २
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः । चक्रवर्तिकुले जातः पुरंदरसमो बले ।। ३
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः । मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ४
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।।