पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता । सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ॥ १३
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः । अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।। १४
सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः । तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ।। १५
भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् । ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।। १६
नेयमर्हति भर्तारं रावणं राक्षसाधिपम् । संभर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ॥ १७
सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् । ततस्तां शिंशपां सीता राक्षसीभिः समावृता । १८
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता । तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।। १९
भर्त्सयांचक्रिरे सीतां राक्षस्यस्तां समन्ततः । ततस्तां विनता नाम राक्षसी भीमदर्शना ।। २०
अब्रवीत् कुपिताकारा कराला निर्णतोदरी । सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः ।। २१
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते । परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।। २२
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि । रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।। २३
विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् । दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ २४
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय । दिव्याङ्गरागा वैदेही दिव्याभरणभूपिता ॥ २५‌
अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव । अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। २६
किं ते रामेण वैदेहि कृपणेन गतायुषा । एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।। २७
अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् । अन्या तु विकटा नाम लम्बमानपयोधरा ।। २८
अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती। बहून्यप्रियरूपाणि वचनानि सुदुर्मते ।। २९
अनुक्रोशान्मृदुत्वाच्च सोढानि तय मैथिलि । न च नः कुरुपे वाक्यं हितं कालपुरःसरम् ॥ ३०
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् । रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। ३१
रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् । न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः ॥ ३२
कुरुष्व हितवादिन्या वचनं मम मैथिलि । अलमश्रुपातेन त्यज शोकमनर्थकम् ।। ३३
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् । सीते राक्षसराजेन सह क्रीड यथासुखम् ।। ३४
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् । यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ॥ ३५
उद्यानानि च रम्याणि पर्वतोपवनानि च । सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। ३६
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि । रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि । यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ।। ३८
ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्छिता । भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ ३९
इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम् । रावणेन हृतां दृष्ट्वा दौहृ‌दो मे महानभूत् ।। ४०