पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे । प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ॥ १३
सर्वासां च महाभागां त्वामुपैप्यति रावणः । समृद्धः स्त्रीसहस्रेण नानारत्नोपशोभितम् ।। १४
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः । अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ १५
असकृद्देवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन स ते पार्श्वमुपागतः ।। १६
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः । किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ।। १७
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् । यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।। १८
न वाति चासितापाङ्गि किं त्वं तस्य न तिष्ठसि । पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ॥ १९
शैलाश्च सुभ्रू: पानीयं जलदाश्च यदेच्छति । तस्य नैर्ऋतराजस्य गजराजस्य भामिनि ॥ २०
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि| साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।। २१
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे राक्षसीप्ररोचनं नाम त्रयोविंशः सर्गः

चतुर्विशः सर्गः
राक्षसानिर्भर्त्सनम्
ततः सीतां समन्तात्ता राक्षस्यो विकृताननाः । पम्प परुपा नार्य ऊचुस्तां वाक्यमप्रियम् ॥ १
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महाईशयनोपेते न वासमनुमन्यसे ।।
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ २
त्रैलोक्यवमुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसंगम्य विहरस्व यथासुखम् ॥ ३
मानुषी मानुषंतं तु राममिच्छसि शोभने । राज्याद् भ्रष्टमसिद्धार्थं विक्लबं त्वमनिन्दिते ।। ४
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ५
यदिदं लोकविद्विष्टमुदाहरथ संगताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥ ६
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ७
दोनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः । तं नित्यमनुरक्तास्मि यथा सूर्य सुवर्चला ॥ ९
यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥ १०
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा । सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ।। ११
सौदासं मदयन्तीव केशिनी सगरं यथा । नैषधं दमयन्तीव भैमी पतिमनुव्रता । १२