पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मां हि धर्मात्मनः पत्नी शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ।। १४
राक्षसाधम रामस्य भार्याममिततेजसः । उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे । १५
यथा दृप्तश्च मातङ्गः शशश्च सहितो वने । तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ।। १६
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे । चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ।। १७
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मामनार्यं निरीक्षतः ॥ १८
तस्य धर्मात्मनः पत्नी स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते ।। १९
असंदेशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।। २०
नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ।। २१
शूरेण धनदभ्रात्रा बलैः समुदितेन च । अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ २२
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । विकृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। २३
नीलजीमूतसंकाशो महाभुजशिरोधरः । सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः ।। २४
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः । रत्नमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः । अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ।। २६
द्वाभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ।। २७
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् । श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः ।। २९
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।।
अनयेनाभिसंपन्नमर्थहीनमनुव्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। ३१
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।। ३२
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। ३३
हस्तिपाद्यश्वपाद्यौ च गोपदीं पादचूलिकाम् । एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। ३४
अतिमात्रशिरोपीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिहिकाम् ।। ३५
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् । यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।। ३६
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च । प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।। ३७
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च । इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥ ३८
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् । उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।। ३९