पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उद्धरिष्यति वेगेन वैनतेय इवोरगान् । अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः ॥ २८
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः । जनस्थाने हतस्थाने निहते रक्षसां बले ।। २९
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै । आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः॥ ३०
गोचरं गतयोर्धात्रोरपनीता त्वयाधम । न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ॥ ३१
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव । तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।। ३२
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः । क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।। ३३
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ।।
गिरि कुबेरस्य गतोऽथ वालयं समां गतो वा वरुणस्य राज्ञः ।
असंशयं दाशरथेनं मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ ३४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्र्नियां संहितायां
सुन्दरकाण्डे रावणतृणीकरणं नाम एकविंशः सर्गः

द्वाविंशः सर्गः
मासद्वयावधिकरणम्
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। १
यथा यथा सान्त्वयिता वश्यः श्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। २
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३
वामः कामो मनुष्याणां यस्मिन् किल निवध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ ४
एतस्मात् कारणान्न त्वां घातयामि वरानने । वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ ५
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६
एवमुक्त्वा तु वैदेही रावणो राक्षसाधिपः । क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ।। ८
द्वाभ्यामूर्ध्वं तु मासाभ्यांं भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थमालभन्ते महानसे ॥ ९
तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ॥ १०
ओष्ठप्रकारैरपरा वक्त्रैर्नेत्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षस। ।। ११
ताभिरश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२
नूनं न ते जनः कश्चिदस्ति निःश्रेयसे- स्थितः । निवारयति यो न त्वां कर्मणोऽम्माद्विगर्हितात् ॥ १३