पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताभिः परिवृतो राजा सुरूपामिर्महायशाः। तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २७
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ।। २८
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । तं ददर्श महातेजास्तेजोवन्तं महाकपिः ।। २९
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः । सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे ॥ ३०
अवप्लुतो महातेजा हनुमान् मारुतात्मजः । स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य स्वतेजसा ॥ ३१
पत्रगुल्मान्तरे सक्तो हनुमान् संवृतोऽभवत् । स तामसितकेशान्तां सुश्रोणी संहत्तस्तनीम् ।। ३२
दिदृक्षुरसितापाङ्गामुपावर्तत रावणः ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे रावणागमनं नाम अष्टादशः सर्ग:

एकोनविंशः सर्गः
कृष्छ्रगतसीतोपमाः
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता । रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ।। १
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २
आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः । ददर्श सीतां दुःखार्ता नावं सन्नामिवार्णवे ॥ ४
असंवृतायामासीनां धरण्यां संशितव्रताम् । छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ।। ५
मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् । मृणाली पङ्कदिग्धेव विभाति न विभाति च ।। ६
समीपं राजसिंहस्य रामस्य विदितात्मनः । संकल्पाहयसंयुक्तैर्यान्तीमिव मनोरथैः ।। ७
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् । दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ ८
वेष्टमानां तथाविष्टां पन्नगेन्द्रवधूमिव । धूयमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ९
वृत्तशीलकुले जातामाचारवति धार्मिके । पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥ १०
अभूतेनापवादेन कीर्तिं निपतितामिव । आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ११
सन्नामिव महाकीतिं श्रद्धामिव विमानिताम् । प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ।। १२
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव । दीप्तामिव दिशं काले पूजामपहतामिव ।। १३
पद्मिनीमिव विश्वस्तां हतशूरां चमूमिव । प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४
वेदीमिव परामृष्टां शान्तामग्निशिखामिव । पौर्णमासीमिव निशां राहुप्रस्तेन्दुमण्डलाम् ॥ १५
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् । हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ।। १६