पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७१
सप्तदशः सर्गः

इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः।
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥३२
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सहितायाम्
सुन्दरकाण्डे हनूमत्परीतापो नाम षोडश: सर्ग:

सप्तदशः सर्गः
राक्षसीपरिवारः
नतः कुमुदपण्डाभो निर्मलो निर्मलं स्वयम् । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ।। २
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। ३
दिदृक्षमाणो वैदेहीं हनुमान् पवनात्मजः । स ददर्शविदूरस्था राक्षसीर्घोग्दर्शनाः ।। ४
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ।। ५
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ।। ६
लम्बकर्णललाटां च लम्बोदरपयोधराम् । लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ ७
ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा । करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ।। ८
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गरधारिणीः ।। ९
वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ।। १०
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११
अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः । गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ।। १२
हस्तिपादा महापादा गोपादाः पादचूलिकाः । अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः॥ १३
अतिमात्रास्यनेत्राश्च दीर्घजिह्वानखास्तथा । अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ।। १४<