पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः। काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये॥
तासां निद्रावशत्वाच्च मदनेन च मूर्छितम्। पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि॥ ३६
एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ३७
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः। जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः॥ ३८
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति॥ ३९
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी। अयं चात्र मया दृष्टः परदारपरिग्रहः॥ ४०
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ४१
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न हि मे मनसः किंचिद्वैकृत्यमुपपद्यते॥ ४२
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्॥ ४३
नान्यत्र च मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सर्वथा परिमार्गणे॥ ४४
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमृग्यते। न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्॥ ४५
तादिदं मार्गितं तावच्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न च जानकी॥ ४६
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्॥ ४७
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे॥ ४८
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे॥ ४९
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे पानभूमिविचयो नाम एकादशः सर्गः

द्वादशः सर्गः
हनूमद्विषादः
स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान्।
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्।
ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली॥
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षकतत्परा सती।
अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे वरे स्थिता॥