पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५६ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता।
अथायमस्यां कृतवान् महात्मा लकेश्वरः कष्टमनार्यकर्म॥ ७३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे संकुलान्तःपुरं नाम नवमः सर्ग:

दशमः सर्गः
मन्दोदरीदर्शनम्
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्॥ १
दान्तकाञ्चनचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २
तस्य चैकतमे देशे सोऽग्र्यमालाविभूषितम्। ददर्श पाण्डरं छत्रं ताराधिपतिसंनिभम्॥ ३
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम्। अशोकमालाविततं ददर्श परमासनम्॥ ४
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्॥ ५
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्॥ ६
तस्मिञ्जीमूतसंकाशं प्रदीपोत्तमकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्॥ ७
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना। सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम्॥ ८
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्॥ ९
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्॥ १०
पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्॥ ११
निश्वसन्तं यथा नागं रावणं वानरर्षभः। आसाद्य परमोद्विग्नः सोऽपासर्पत् सुभीतवत्॥ १२
अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥ १३
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्॥ १४
काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ॥ १५