पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे ददर्श राक्षसेन्द्रस्य राषणस्य निवेशने । शिबिका विविधाकाराः स कपिार्मारुतात्मजः॥ ३५ हेमजालपरिच्छनास्तरुणादित्यवर्चसः । लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥ ३६ क्रीडागृहाणि चान्यानि दारुपर्वतकानपि । कामस्य गृहकं रम्यं दिवागृहकमेव च ॥ ३७ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने । स मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥ ३८ ध्वजयष्टिभिराकीर्ण ददर्श भवनोत्तमम् । अनेकरत्नसंकीर्ण निधिजालसमावृतम् ॥ ३९ धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव । अर्चिभिश्चापि रत्नानां तेजसा रावणस्य च ॥ ४० विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः । जाम्बूनदमयान्येव शयनान्यासनानि च ॥ ४१ भाजनानि च शुभ्राणि ददर्श हरियूथपः । मध्वासवकृतक्लेदं मणिभाजनसंफुलम् ॥ ४२ मनोरममसंबाधं कुबेरभवनं यथा । नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ ४३ मृदातलघोषैश्च घोषवद्भिर्विनादितम् । प्रासादसङ्गातयुतं स्त्रीरत्नशतसंकुलम ॥ ४४ सुन्यूढकक्ष्यं हनुमान प्रविवेश महागृहम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्घिशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रावणगृहावेक्षणं नाम पष्ठः सर्गः

सष्तमः सर्गः

पुष्पकदर्शनम् स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम । यथा महत् प्रायृषि मेघजालं विघुत्पिनद्धं सविहङ्गजालम् ॥ निवेशनानां विविधाश्च शालाः प्रधानशङ्कायुधचापशालाः । मनोहराश्चापि पुनर्विशाला ददर्श वेश्मादिषु चन्द्रशालाः ॥ गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि । सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि । महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ सतो ददर्शो च्छितमेघरूपं मनोहरं काञ्चनचाररूपम् । रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं प्रतिरूपरूपम् ॥

१. कांर्माङ्गम् ति.