पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी । भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिता । न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६ ततः स हरिशार्दूलस्तामुवाच निशाचरीम् । दृध्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ततः कृत्वा महानादं सा वै लङ्का भयावहम् । तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ वतः स कपिशार्दूलो लङ्कया ताडितो भृशम् । ननाद सुमहानादं वीर्यवान् पवनात्मजः॥ ३९ ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः । मुष्टिनाभिजधानैनां हनूमान् क्रोधमूर्छितः॥ ४० स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः । सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥ ४१ पपात सहसा भूमौ विकृताननदर्शना । ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ ४२ कृषां चकार तेजस्वी मन्यमानः खियं तु ताम् । ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ ४३ भवाच गर्वित' वाक्यं हनूमन्तं प्लवङ्गमम् । प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ ४४ समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः । अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ ४५ निर्जिताहं त्वया वीर विक्रमेण महाबल । इदं च तथ्यं शृणु वै ब्रुवत्या मे हरीश्वर ॥ ४६ स्वयंभुवा पुरा दत्तं वरदानं यथा मम । यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ ४७ तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् । स हि मे समयः सौम्यः प्राप्तोऽद्य तव दर्शनात् ॥ ४८ स्वयंभुविहितः सत्यो न तस्यास्ति व्यतिक्रमः । सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ ४९ रक्षसां चैव सर्वेषां विनाशः समुपस्थितः । तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ ५० विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ प्रविश्य शापोपहतां हरीश्वर पुरी शुभां राक्षसमुख्यपालिताम् । दिक्षया त्वं जनकात्मजां सती विमार्ग सर्वत्र गतो यथासुखम् ॥ ५१ इत्याषें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् सुन्दरकाण्डे लङ्काधिदेवताविजयो नाम तृतीयः सर्ग: 1. भूय एवेति । क्षुत्वेति पूर्णत्रान्वेसि । तस्य कस्त्वमिति, पच प्रतिशतवानसि कथयिष्यामि ते। बनूमतः तत् जिज्ञसितार्थस्यानभिधायकमेव वचनं तत्यम्' इति तदवतुमईसीति उपसंहाराभिप्रायः । हितीववारमपि श्रुत्वेत्यर्थः ।लङ्का हि प्रथममेकवारं तथा द्वितीयपर्यायेऽपि प्रश्नविरूपमेव किमपि प्रत्युच्प- कस्त्वं केन च कार्येण' इति स्वकीयप्र इअनाननुरुप हनू- माना पुनः क्रुदा ससी परुषाधरं बमाषे इति संगम- मतः सकाशात 'का त्वं विरूपनयना' इति प्रति- नीयम् । व्याख्यावृभिस्तु भूयः पुनः बभाषे इति यथा- प्रश्नमक्षृणेःत् । एवं इनूमता पृष्टा च सा स्वकं क्षुतमेव योजयित्वा पुनरुक्त्तिपरिहारय भूयोऽतिशथेम वृत्तान्तं पथावदुपवर्ण्य 'एसत्ते कषितं मया' इत्युपसं- परुषाक्षरं वमाषे इति विवृतम् । जहार । मया ताबत् सर्वमुक्तम् । त्वं पुनर्यत पृष्टाद्वसि १. उवाचाबित च