पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तुतीयः संगः ५४३ वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः । चारसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० क्रौञ्चबहिणसंघुष्टै राजहंसनिषेवितैः । तूर्याभरणनिर्घो| षैः सर्वतः प्रतिनादिताम् ॥ ११ वस्वोकसाराप्रतिमां समीक्ष्य नगरी ततः। खमिवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः॥ १२ तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम । अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान् ॥ १३ नेयमन्येन नगरी शक्या धर्षयितुं बलात् । रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः । प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ विवस्वतस्तनूजस्य हरेक्ष्च कुशपर्वणः । ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ समीक्ष्य च महाबाहू राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान कपिः ॥ १७ ता रत्नवसनोपेतां गोष्ठागारावतंसकाम् । यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ।। १८ तां नष्टतिमिरां दीपैर्भारैश्च महागृहैः । नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् । नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० सा तं हरिवरं दृप्ट्वा लङ्का रावणपालिता' । स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ २१ पुरस्तात् कपिवर्यस्य वायुसूनोरतिष्ठत । मुञ्चमाना महानादमब्रवीत् पवनात्मजम् ॥ २२ कस्त्वं केन च कार्येण इह प्राप्तो वनालय । कथयस्वेह यत्तत्त्वं यावत् प्राणा धरन्ति ते ॥ २३ न शक्या खल्वियं लङ्का प्रवेष्टुं वानर त्वया । रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ अथ तामब्रवीद्वीरो हनुमानग्नतः स्थिताम् । कथयिष्यामि ते सत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५ का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे । किमर्थ चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ २६ हनूमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी । उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ अहं राक्षसराजस्य रावणस्य महात्मनः । आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम । सर्वतः परिरक्षामि ह्योतत्ते कथितं मया ॥ ३० लङ्काया वचनं श्रुत्वा हनूमान् मारुतात्मजः। यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः ॥ ३१ स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुंगवः । आवभाषेऽथ मेधावी सत्त्ववाम् प्लवगर्षभः ॥ ३२ द्रक्ष्यामि नगरी लङ्कां सादृप्राकारतोरणाम् । इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ वानान्युपवनानीह लङ्कायाः काननानि च । सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ २२

1. बस्वोकसारा मछका। 2. तामित्यादि । समनन्तरक्ष्लोकस्थं ददर्शेति १. सा कामरूपिणी गं पदमिहापि संबध्यते । ता प्रसिद्धां तां कङ्कामित्व- इदं पचा क. नास्ति ।