पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः ५४१

संपूर्णा राक्षसैर्घो रैर्नागैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ २४ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः । रक्षितां राक्षसैर्घो रैर्गुहामाशीविषैरिव ॥ २५ तस्याश्च महतीं गुप्तिं सागरं च समीक्ष्य सः । रावणं च रिपुं घोरं चिन्तयामास वानरः॥ २६ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः । न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ २७ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम । प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ २८ अवकाशो न सान्त्वस्य राक्षसेप्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ चतुर्णामेव हि गतिर्वानराणां महात्मनाम । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥३१ तनः स चिन्तयामास मुहूर्त कपिकुञ्जरः । गिरिशृङ्गे स्थितस्तस्मिन् रामत्याभ्युदये रतः ॥ ३२ अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ उग्रीजसो महावीर्या बलवन्तश्च राक्षसाः । वञ्चनीया मया सर्वे जानकी परिमार्गता ॥ ३४ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया । प्रवेष्टुं प्राप्तकालो मे कृत्यं साधयितुं महत् ॥ ३५ तां पुरी तादृशीं दृष्ट्वा दुराधर्षा सुरासुरैः। हनूमाश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥ ३६ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ न विनश्यत् कथं कार्य रामस्य विदितात्मनः । एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ भूताश्चार्था विपद्यन्ते देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ अर्थानार्थान्तरे बुद्धिर्निश्चितापि न शोभते । धातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० न विनश्येत् कथं कार्य वैल्कव्यं न कथं भवेत् । लङ्थनं च समुद्रस्य कथं नु न भवेद्वृथा ॥ ४१ मयि हष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेव्धर्थमिदं कार्य रावणानर्थमिच्छतः ॥ ४२ न हि शक्यं क्वचिन् स्थातुमविज्ञातेन राक्षसैः । अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ वायुरप्यत्र नाशातश्चरेदिति मतिर्मम । न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः । विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ ४५ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः । लङ्कामभिगमिष्यामि राघवस्यार्थसिद्धये ॥ ४६ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् । विचिन्वन् भवनं सर्व द्रक्ष्यामि जनकात्मजाम् ॥ ४७ इति संचिन्त्य हनुमान सूर्यस्यास्तमयं कपिः । आचकाङ्के तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः । पृषवंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ ४९ प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् । प्रविवेश पुरी रम्यां सुविभक्कमहापथाम् ॥ ५०

१. नागैरित्यादि पोरैरित्यन्तम् ति. नास्ति । २ लहरपुरी. क. ग. प. च छ