पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ५३५ विर्यगूर्वमधश्चैव शक्तिस्ते शैल वर्धितुम् । तस्मात् संचोदयामि त्वामुत्तिष्ठ नगसत्तम ॥ ९४ स एष कपिशार्दूलस्त्वामुपैष्यति वीर्यवान् । हनूमान् रामकार्यार्थ भीमकर्मा खमाप्लुतः ॥ ९५ अस्य साझं मया कार्यमिक्ष्वाकुहितवर्तिनः। मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ९६ कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् । कर्तव्यमकृतं कार्य सतां 'मन्युमुदीरयेत् ॥ ९७ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिरत्वयि । अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ९८ चामीकरमहानाभ देवगन्धर्वसेवित । हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिप्यति ॥ ९९ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् । श्रमं च प्लवगेन्द्रस्य ममीक्ष्योत्थातुमईसि ॥ १०० हिरण्यनाभो मैनाको निशम्य लवणाम्भसः । उत्पपात जलात्तूर्ण महाद्रुमलतायुतः ॥ १०१ स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा । यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०२ स महात्मा मुहूर्तेन पर्वतः सलिलावृतः । दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०३ शातकुम्भमयैः शृङ्गै सकिंनरमहोरगैः। अदित्योदयसंकाशैरालिखद्भिरिवाम्बरम ॥ १०४ तप्तजाम्बूनदैः शृङ्गै पर्वतस्य समुत्थितैः । आकाशं शन्त्रसंकाशमभवत् काञ्चनप्रभम् ॥ १०५ जातरूपमयैः शृङ्गै भ्राजमानैः स्वयंप्रभैः । आदित्यशतसंकाशः सोऽभवगिरिसत्तमः ॥ १०६ तमुत्थितममङ्गेन हनुमानग्रनः स्थिनम् । मध्ये लपणतोयस्य विव्नोऽयमिति निश्चितः ॥ १०७ स तमुच्छ्तिमत्यर्थ महावेगो महाकपिः । उरसा पातयामाम जीमूमित्र मारुतः॥ १०८ म तथा पातितस्तेन कपिना पर्वतोत्तमः । बुद्ध्वा तस्य कपेर्वेगं जहर्प च ननाद च ॥ १०९ तमाकाशगतं वीरमाकाशे समुपस्थितः । प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम् ॥ ११० मानुपं धारयन् रूपमात्मनः शिखरे स्थितः । दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ॥ १११ निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् । राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ ११२ स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः । कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥ ११३ सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति । त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ ११४ योजनानां शतं चापि कपिरेष खमाप्लुनः । तव सानुपु विश्रान्तः शेषं प्रक्रमतामिति ॥ ११५ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् । तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ॥ ११६ 'तदास्वाघ हरिश्रेष्ठ विश्रम्य श्वो गभिष्यसि । अस्माकमपि संबन्धः कपिमुख्य त्वयास्ति वै ॥ ११७ 1. मन्युः वित्तवेकृतम् । अतः अवशकर्तव्य- ४.वर पुना. मकुर्वन् पश्चात् मन्यु गमिष्यसीति भावः। ५.इर्धम् ग्व नास्ति । अस्व साझ इ.मर्धम् ब. नास्ति । 2. शस्त्रसकाशं नीलामम् । मित्यादि विवामनमित्यन्तम कचित्रारित । 3. समास्वाति चेत् दृश्यते म पाठः क्ष्लिष्टः । ६ वनः क १। मप्राप्लुतः छ ७ इदं पघ ग्वक नास्ति। ३. कुलवर्तिनः च, ८ इदं पधं ख. नास्ति । ३. कुर्वित्यादि उदीरयेद्वित्पन्न ष, नास्ति। ९ विश्रान्तोऽनुगमिष्यसि .