पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥
॥ श्रीमद्वाल्मीकिरामायणम् ॥
॥ अथ सुन्दरकाण्डः ॥
प्रथमः सर्गः
सागरल नम्

नतो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेप पदमन्वेष्टुं चारणाचरिते पथि ॥ १
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन फर्म वानरः । समुदप्रशिरोग्रीवो गवां पतिरिवाबभौ ॥ २
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विचचार यथासुखम ॥ ३
द्विजान वित्रासयन् धीमानुरसा पादपान् हरन् । मृगांश्च सुबहून्निघ्रन् प्रवृद्ध इव केसरी ॥ ४
नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः । स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥ ५
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः । यक्षकिंनरगन्धर्देवकल्पैश्च पन्नगैः ॥ ६
स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन् कपिवरस्तत्र हदे नाग इवाबभौ ॥ ७
स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८
अञ्जलि प्राङ्मुखः कुर्वन पवनायात्मयोनये । ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्धयर्थं समुद्र इव पर्वसु ॥१०
निष्प्रमाणशरीरः संल्लिलङ्क्षयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११
स चचालाचलश्चापि मुहूर्त कपिपीडितः । तरूणां पुष्पिताग्राणां सर्व पुष्पमशातयत् ॥ १२
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना । सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ १३
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः । सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥ १४
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीनिर्वर्तयामास काञ्चनाञ्जनराजतीः॥ १५
मुमोच च शिलाः शैलो विशालाः सुमनःशिलाः । मध्यमेनार्चिषा जुष्टो 'धूमराजीरिवानलः ॥ १६
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः । गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ १७
स महासत्त्वसंनादः शैलपीडानिमित्तजः । पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ १८

१ ततोऽभिवकृधे छ ४ इदमर्धे ग नास्ति । २ अरयानन्तरम् - प्रग्ऱाझ बलवान् ५ षूमराजिः ति लङ्काबमिमुखः स्थितः : - इति ग ६ इरिणा प्र ३ विदमर्ध क्ष्लोकानन्तरं ग द्वश्यते । स महान् घ छ