पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३०

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


सपताक इवाभावि स तदा धरणीधरः । ऋषिभिस्त्राससंभ्रान्तैस्त्यज्यमानशिलोच्चयः॥४९
सीदन् महति कान्तारे सार्थहीन इबाध्वगः ॥

स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।
मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ।।५०

इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम्

किष्किन्धाकाण्डे लङ्घनावष्टम्भो नाम सप्तषष्टितमः सर्ग:

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डः संपूर्णः