पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः

५२९


उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम् । वीर केसरिणः पुत्र हनुमन् मारुतात्मज ।।३२
ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः । तव कल्याणरुचयः कपिमुख्याः समागताः॥३३
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥३४
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् । स्थास्यामश्चैकपादेन यावदागमनं तव ।।३५
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् । ततस्तु हरिशार्दूलस्तानुवाच वनौकसः॥३६
नेयं मम मही वेगं लङ्घने धारयिष्यति । एतानीह नगस्यास्य शिलासंकटशालिनः॥३७
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च । एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ।।३८
नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु । एतानि मम निष्पेषं पादयोः प्लवतां वराः ॥३९
प्लवतो धारयिष्यन्ति योजनानामितः शतम् । ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ॥४०
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः । वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ॥४१
लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् । सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ॥४२
मद्विजगणोद्रुष्टं सलिलोत्पीडसंकुलम् । महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।।४३
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः । पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ।।४४
ररास सिंहाभिहतो महान् मत्त इव द्विपः । मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ।।४५
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः । नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।।४६
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि । त्यज्यमानमहासानुः संनिलीनमहोरगः ॥४७
चलशृङ्गशिलोद्घातस्तदाभूत् स महागिरिः । निश्वसद्भिस्तदार्तैस्तु भुजङ्गैरर्धनिःसृतैः ॥४८