पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२८

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः । विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ।।५
प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः । त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः।।६
अशोभत मुखं तस्य जम्भमाणस्य धीमतः । अम्बरीषमिवादीप्तं विधूम इव पावकः ॥७
हरीणामुत्थितो मध्यात् संप्रहृष्टतनूरुहः । अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत् ।।८
अरुजत् पर्वताग्राणि हुताशनसखोऽनिलः । बलवानप्रमेयश्च वायुराकाशगोचरः ।।९
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः । मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ।।१०
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् । मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे । समाप्लायितुं लोकं सपर्वतनदीह्रदम् ॥१२
ममोरजङ्घावेगेन भविष्यति समुत्थितः । समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ।। १३
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ।।१४
उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमभिगन्तुं समुत्सहे ।। १५
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भी मेन प्लवगर्षभाः ॥१६
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् । सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ॥१७
पर्वतान् कम्पयिष्यामि प्लवमानः प्लवङ्गमाः । हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ।। १८
लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यति मामद्य प्लवमानं विहायसा ।। १९
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा।।२०
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः । महामेघप्रतीकाशं च द्रक्ष्यथ वानराः॥ २१
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् । विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ॥ २२
सागरं क्षोभवयिष्यामि प्लवमानः समाहितः । वैनतेयस्य सा शक्तिर्मम वा मारुतस्य वा ।। २३
ऋते सुपर्णराजानं मारुतं वा महाजवम् । न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥२४
निमेपान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामि घनाद्विादिवोत्थिता ।।२५
भविष्यति हि मे रूपं प्लवमानस्य सागरे । विष्णोर्विक्रममाणस्य पुर। त्रीन् विक्रमानिव ॥ २६
बुद्धया चाहं प्रपश्यामि मनश्चेष्टा च मे तथा । अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २७
मारुतस्य समो वेगे गरुडस्य समो जवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥२८
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयंभुवः । विक्रम्य सहसा हस्तादमृतं तदिहानये ।।२९
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः । तमेवं वानरश्रेष्टं गर्जन्तममितौजसम् ॥ ३०
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः । तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ३१