पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः

५२७


ततो हि नामधेयं ते हनुमानिति कीर्त्यते । ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।। २५
त्रैलोक्ये भृशसंकुद्धो न ववौ वे प्रभञ्जनः । संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ॥ २६
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः । प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।।२७
अशस्त्रवध्यतां तात समरे सत्यविक्रम । वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।। २८
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् । स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो।। २९
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः । मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ ३०
ईदृशस्य च ते तात वर्णयामः कथं बलम् । कार्यं चालोकसामान्यं कर्तुं शक्तस्त्वमेव हि ।। ३१
भवाञ्जीवातवेऽस्माकमञ्जनागर्भसंभव । त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ।।३२
वयमद्य गतप्राणा भवान्नस्त्रातु सांप्रतम् । दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः ।। ३३
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ।।३४
तथा चौषधयोऽस्माभिः संचिता देवशासनात् । निष्पन्नममृतं याभिस्तदासीनो महद्बलम् ।। ३५
स इदानीमहं वृद्धः परिहीनपराक्रमः । सांप्रतं कालमस्माकं भवान् सर्वगुणान्वितः ।। ३६
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि । त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहिनी ।। ३७
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव ।।३८
विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे । विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ।।३९

ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षंयस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संदितायाम्

किष्किन्धाकाण्डे हनूमदलसंधुक्षणं नाम षट्षष्टितमः सर्गः

सप्तषष्टितमः सर्गः

लङ्घनावष्टम्भः

संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविष्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥१
तस्य संस्तूयमानस्य वृद्धर्वानरपुंगवैः । तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ।।२
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते ॥३
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वीर्येणापूर्यमाणं च सहसा वानरोत्तमाः ।।४