पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२६

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


षट्षष्टितमः सर्गः

हनूमदलसंधुक्षणम्

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ।।१
वीर वानरलोकस्य सर्वंशास्त्रविशारद । तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ।।२
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ।।३
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ।।४
बहुशो हि मया दृष्टः सागरे स महाबलः । भुजगानुद्धरन् पक्षी महावेगो महायशाः ।।५
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव । विक्रमश्चापि वेगश्च न ते तेनावहीयते ।।६
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुंगव । विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ७।
असीदप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ! अञ्जनेति परिख्याता पत्नी केसरिणो हरेः।।८
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत्तात वानरी कामरूपिणी ॥९
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः । कपित्वे चारसर्वाङ्गी कदाचित् कामरूपिणी ॥१०
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी । विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥११
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे । तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ॥१२
स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः । स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ॥१३
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् । तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ १४
दृष्ट्रैव शुभसर्वाङ्गीं पवनः काममोहितः । स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।। १५
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् । सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ॥ १६
एकपत्नीव्रतमिदं को नाशयितुमिच्छति । अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।।१७
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् । मारुतोऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥१८
वीर्यवान् बुद्धिसंपन्नस्तव पुत्रो भविष्यति । महासत्त्वो महातेजा महाबलपराक्रमः ॥ १९
लङ्घने प्लवने चैव भविष्यति मया समः । एवमुक्का ततस्तुष्टा जननी ते महाकपे ।२०
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् । अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ॥ २१
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् । शतानि त्रीणि गत्वाथ योजनानां महाकपे ।। २२
तेजसा तस्य निर्धूतो न विषादं गतस्ततः । तापदापततस्तूर्णमन्तरिक्षं महाकपे ॥२३
क्षिप्तमिन्द्रेण ते वयं क्रोधाविष्टेन धीमता । तदा शैलाग्रशिखरे वामो हनुरभज्यत ।२४