पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चषष्टितमः सर्गः

५२५


किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् । यदर्थं कपिराजश्व रामश्च कृतनिश्चयौ ॥१२
सांप्रतं कालभेदेन या गतिस्तां निबोधत । नवतिं योजनानां तु गमिष्यामि न संशयः ॥१३
तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत् । न खल्वेतावदेवासीद्गमने मे पराक्रमः ॥१४
मया महाबलेश्चैव यज्ञे विष्णुः सनातनः । प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥१५
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः । यौवने च तदासीन्मे बलमप्रतिमं परैः ।।१६
संप्रत्येतावती शक्तिं गमने तर्कयाम्यहम् । नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ।।१७
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा । अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः ।।१८
अहमेतद्गमिष्यामि योजनानां शतं महत् । निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चिता ॥१९
तमुवाच हरिश्रेष्ठं जाम्बवान वाक्यकोविदः । ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥२०
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते । योजनानां भवाoशक्तो गन्तुं प्रतिनिवर्तितुम् ।।२१
न हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ।।२२
भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः । स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ॥२३
तस्मात् कलत्रवत्तत्र प्रतिपाल्यः सदा भवान् । अपि चैतस्य कार्यस्य भवान मूलमरिंदम ॥२४
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः । मूले हि सति सिध्यन्ति गुणाः पुष्पफलोदयाः ॥२५
तद्भवानस्य कार्यस्य साधनं सत्यविक्रम । बुद्धिविक्रमसंपन्नो हेतुरत्र परंतप ॥२६
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम । भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥२७
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ।।२८
यदि नाहं गमिष्यामि नान्यो वानरपुंगवः । पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥२९
न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः । तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥३०
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः । अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥३१
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः । तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥३२
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः । जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥३३
अस्य ते वीर कार्यस्य न किंचित् परिहीयते । एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥३४

ततः प्रतीतं प्लवतां वरिष्टमेकान्तमाश्रित्य सुखोपविष्टम् ।
संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥३५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

किष्किन्धाकाण्डे बलेयत्ताविष्करणं नाम पञ्चषष्टितमः सर्गः