पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे आदर्शतलसंकाशा ततो वै पृथिवी मया । अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥१३ पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् । पर्वतांश्च नदी रम्याः सरांसि विविधानि च॥१४ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥१५ परिकालयमानस्तु वालिनाभिद्रुतस्तदा । पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो॥१६ पुनरावर्तमानस्तु वालिनाभिद्रुतो द्रुतम् । दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥१७ विन्ध्यपादपसंकीर्णा चन्दनद्रुमशोभिताम् । द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान् ॥१८ पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः । संपश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ॥ १९ प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां संप्रधावितः । हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम ॥२० यदा न विन्दे शरणं वालिना समभिद्रुतः । तदा मां बुद्धिसंपन्नो हनुमान् वाक्यमब्रवीत् ॥२१ इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः । मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥२२ प्रविशेद्यदि वै वाली मूर्धास्य शलधा भवेत् । तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ॥ २३ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज । न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥२४ एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः ॥२५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे भूमण्डलभ्रमणकथनं नाम षट्चत्वारिंशः सर्गः सप्तचत्वारिंशः सर्गः कपिसेनाप्रत्यागमनम् दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥१ सरांसि सरितः कक्षानाकाशं नगराणि च । नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ॥२ सुग्रीवेण समादिष्टाः सर्वे वानरयूथपाः । तत्र देशान् विचिन्वन्ति सशैलवनकाननान् ॥३ विचित्य दिवस सर्वे सीताधिगमने धृताः । समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥४ सर्वर्तुकांश्च देशेषु वानराः सफलान् द्रमान् । आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ॥ ५ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपियूथपाः ॥६ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥७ उत्तरां च दिशं सर्वा विचित्य स महाकपिः । आगतः सह सैन्येन वीरः शतबलिस्तदा ॥८ सुषेणः पश्चिमामाशां विचित्य सह वानरैः । समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥९ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥१०