पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्चत्वारिंशः सर्गः ५०३ ततः सर्वा दिशो राजा चोदयित्वा यथातथम् । कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम् ॥८ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥९ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् । नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ १० क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः। अहमेको हनिष्यामि प्राप्त रावणमाहवे ॥ ११ ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् । वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति ॥ १२ एक एवाहरिष्यामि पातालादपि जानकीम् । विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन् ॥१३ धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् । अहं योजनसंख्यायाः प्लविता नात्र संशयः ॥ १४ शतं योजनसंख्यायाः शतं समधिकं ह्यहम् । भूतले सागरे वापि शैलेषु च वनेषु च ॥१५ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः । इत्येकैकं तदा नत्र वानरा बलदर्पिताः ॥१६ ऊचुश्च वचनं तत्र हरिराजस्य संनिधौ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे वानरबलप्रतिष्ठा नाम पञ्चचत्वारिंशः सर्गः षट्चत्वारिंशः सर्गः भूमण्डलभ्रमणकथनम् गतेषु वानरेन्द्रपु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥१ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥२ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । परिकालयते वाली मलयं प्रति पर्वतम् ॥३ तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तज्जिघांसया ॥४ ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् । न च निष्क्रमते वाली तदा संवत्सरे गते ॥५ ततः क्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥६ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतसंकाशा बिलद्वारि मया कृता ॥७ अशक्नुवनिष्क्रमितुं महिषो विनशेदिति । ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ॥ ८ राज्यं च सुमहत् प्राप्तं तारया रुमया सह । मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥९ आजगाम ततो वाली हत्वा तं दानवर्षभम् । ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ १० स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः । परिकालयते क्रोधाद्धावन्तं सचिवैः सह ॥ ११ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥१२