पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विचत्वारिंशः सर्गः ४९७

महर्षिपुत्रं मारीचर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥३ बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान् मारीचानर्चिर्मालान् महाबलान् ॥४ ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद्दिशम् । द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ ५ सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत । सुराष्ट्रान् सहबाह्लीकाञ्शूरान् भीमांस्तथैव च ॥ ६ स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च । पुंनागगहनं कुक्षिं वकुलोद्दालकाकुलम् ॥७ तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः । प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ॥८ तापसानामरण्यानि कान्तारा गिरयश्च ये । ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः॥९ गिरिजालावृतां दुर्गां मार्गध्वं पश्चिमां दिशम् । ततः पश्चिममासाथ समुद्रं द्रष्टुमर्हथ ॥१० तिमिनक्रायुतजलमक्षोभ्यमथ वानराः । ततः केतकषण्डेषु तमालगहनेषु च ॥११ कपयो विहरिष्यन्ति नारिकेलवनेषु च । तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥ १२ वेलातटनिविष्टेषु पर्वतेषु वनेषु च । मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ॥१३ अवन्तीमङ्गलेपां च तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ १४ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः । महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥१५ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ १६ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये । दृप्तास्तृप्राश्च मातङ्गास्तोयदस्वननिःस्वनाः॥१७ विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः । तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ॥१८ सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः । कोटिं तत्र समुद्रे तु काश्चनीं शतयोजनाम् ॥ १९ दुर्दर्शां पारियात्रस्य गता द्रक्ष्यथ वानराः । कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ॥२० वसन्त्यग्निनिकाशानां महतां कामरूपिणाम् । पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः॥ २१ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः । नादेयं च फलं तस्माद्देशात् किंचित् प्लवङ्गमैः ॥२२ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः । फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ २३ तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी । न हि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम् ॥ २४ तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः । नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ २५ श्रीमान् समुदितस्तत्र योजनानां शतं समम् । गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥ २६ चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥२७ तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥२८ तस्य सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥२९