पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकचत्वारिंशः सर्गः ४९५ अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः । वेगविक्रमसंपन्नान् संदिदेश विशेषवित् ॥५ तेषामग्रेसरं चैव महाबलमथाङ्गदम् । विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥६ ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥७ सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् । नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥८ ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् । वरदां च महाभागां महोरगनिषेविताम् ॥९ मेखलानुत्कलांश्चैव दशार्णनगराण्यपि । अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥१० विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि । तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः॥११ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् । नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ १२ तथैवान्ध्राश्च पुण्ड्रांश्च चोलान्पाण्ड्याण् सकेरलान् । अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः॥१३ विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः । सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४ ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ॥१५ तस्यासीनं नगस्याग्रे मलयस्य महौजसम् । द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना । ताम्रपर्णी प्राहजुष्टां तरिष्यथ महात्मना । सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी । कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् । मुक्ताकवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ १९ ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् । अगस्त्येनान्तरे तत्र सागरे विनिवेशितः॥२० चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः । जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१ नानाविधैर्नगैः फुल्लैलताभिश्चोपशोभितम् । देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् । तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः । अगम्यो मानुपैर्दीप्तस्तं मार्गध्वं समन्ततः ॥२४ तत्र सर्वात्मना सीता मार्गितव्या विशेषतः । स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ॥ २५ राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः । दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ २६ अङ्गारकेति विख्याता छायामाक्षिप्य भोजनी। एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः ॥ २७ मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः । तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ॥२८ गिरिः पुष्पितको नाम सिद्धचारणसेवितः। चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ॥२९ भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव । तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ॥ ३० श्वेतं राजतशृङ्गं च सेवते यं निशाकरः । न तं कृतन्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।। ३१ प्रणम्य शिरसा शैलं तं विमार्गत वानराः । तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ॥ ३२