पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः।। ५३ पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः । ततः परं हेममयः श्रीमानुदयपर्वतः ॥५४ तस्य कोटिदिवं स्पृष्ट्वा शतयोजनमायता। जातरूपमयी दिव्या विराजति सवेदिका ॥५५ सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ॥५६ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥५७ तत्र पूर्व पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ।। उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्टं शिखरं तन्महोच्छ्रयम् ॥ ५९ तत्र वैखानमा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः । ६० अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ।६१ शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥६२ काञ्चनम्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥६३ पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च । सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ६४ तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥६५ ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ६६ शैलेषु तेषु सर्वेषु कन्दरेयु वनेषु च । ये च नोक्ता मया देशा विचेया तेषु जानकी ॥६७ एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः । अभास्करममर्यादं न जानीमस्ततः परम ॥ ६८ अधिगम्य तु वैदेहीं निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६९ ऊर्ध्व मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सिद्धार्थाः संनिवर्तध्यमधिगम्य च मैथिलीम् ॥७० महेन्द्रकान्तां वनषण्डमण्डिनां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीता रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ॥७१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे प्राचीप्रेषण नाम चत्वारिंशः सर्गः एकचत्वारिंशः सर्गः दक्षिणाप्रेषणम् ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥१ नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥२ सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥३ मैन्दं च द्विविदं चैव विजयं गन्धमादनम् । उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥४