पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चस्वारिंशः सर्गः

घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः । अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ।। २६ किरातास्तीक्ष्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः । आममीनाशनास्तत्र किराता द्वीपवासिनः ॥ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः। एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च । यत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ।। २९ सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् । यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।। दिवं स्पृशति शृङ्गेण देवदानवसेवितः । एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ।। ३१ मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् । ततो रक्तजलं शोणमगाधं शीघ्रगाहिनम् ।। ३२ गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् । तस्य तीर्थषु रम्येषु विचित्रेषु वनेषु च ।। ३३ रावणः मह वैदेह्या मार्गिनव्यस्ततस्ततः । पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः ।। ३४ मार्गितव्या दरीमन्तः पर्वताश्च वनानि च । ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ।। ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम् । तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः॥ ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः। तं कालमेघप्रतिमं महोरगनिषेवितम् ।। अभिगम्य महानादं तीर्थेनैव महोदधिम् । ततो रक्तजलं भीमं लोहितं नाम सागरम् ॥ ३८ गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् । गृहं च वैनतेयस्य नानारत्नविभूषितम् ॥ ३९ तत्र कैलाससंकाशं विहितं विश्वकर्मणा । तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः । ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । ४१ निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ।। ताः पाण्डरमेघाभं क्षीरोदं नाम सागरम् । गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिव क्षितेः ।। ४३ तस्य मध्ये महाञ्श्वेत ऋषभो नाम पर्वतः । दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः । नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४५ विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः । हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ ४६ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः । जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ तत्र तत् कोपजं तेजः कृतं हयमुखं महत् । अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ तन्त्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते च समर्थानां दृष्ट्वा तद्वडवामुखम् ।। ४९ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश । जातरूपशिलो नाम महान् कनकपर्वतः ॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ।। आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवाससम् ।।