पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९२ श्रीद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

चत्वारिंशः सर्गः प्राचीप्रेषणम् अथ राजा समृद्धार्थः सुग्रीवः प्लवगाधिपः । उवाच नरशार्दूल रामं परबलार्दनम् ।। भागता विनिविष्टाश्च बलिनः कामरूपिणः । वानरा वारणेन्द्राभा ये मद्विषयवासिनः।। त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः ।। ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्यञ्श इमे प्राप्ता वानरास्तव किंकराः ॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । अभिप्रेतमनुष्टातुं तव शक्ष्यन्त्यरिंदम ।। न इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।। त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि । काममेषामिदं कार्यं विदितं मम तत्त्वतः ।। तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि । तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ॥ ९ बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् । ज्ञायतां मम वैदेही यदि जीवति वा न वा ॥ १० स च देशो महाप्राज्ञ यस्मिन् वसति रावणः । अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ ११ प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया । नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः।। १२ त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर । त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ॥ १३ त्वं हि जानासि यत् कार्यं मम वीर न संशयः । सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।। भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः । एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।। १५ अब्रवीद्रामसांन्निध्ये लक्ष्मणस्य च धीमतः । शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ।। १६ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ।। वृतः शतसहस्रेण वानराणां तरस्विनाम् । अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ।। तत्र सीतां च वैदेहीं निलयं रावणस्य च । मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ १९ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा । कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ।। २० सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् । महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २१ ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् । मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गांस्तथैव च ॥ पत्तनं कोशकाराणां भूमिं च रजताकराम् । सर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः ।। २३ रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् । समुद्रमवगाढांश्च पर्वतान् पत्तनानि च ॥ मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् । कर्णप्रावरणाश्चैव तथा चात्योष्ठकर्णकाः ॥