पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० श्रीमद्वाल्मीकिरामायणे बालकाण्डे

ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ॥ १३ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥ १४ आसीनानां समीपस्थाविदं काव्यमगायताम् । तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १५ साधुसाध्विति तावूचुः परं विस्मयमागताः । ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १६ प्रशशंसुः प्रशस्तव्यौ गायन्तौ तौ कुशीलवौ । अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १७ चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् । प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥ १८ सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा । एवं प्रशस्यमानौ तैस्तपःश्लाघ्यैर्महर्षिभिः ॥ १९ संरक्ततरमत्यर्थं मधुरं तावगायताम् । प्रीतः कश्चिन्मुनिस्ताभ्यामुत्थितः कलशं ददौ ॥ २० प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः । अन्यः कृष्णाजिनं प्रादान्मौञ्जीमन्यो महामुनिः ॥ २१ कश्चित् कमण्डलुं प्रादाद्यज्ञसूत्रमथापरः । औदुम्बरीं वृसीमन्यो जपमालामथापरः ॥ २२ वृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः । ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ॥ २३ काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ॥ २४ यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः । आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ २५ ददुश्चैव वरान् सर्वे मुनयः सत्यवादिनः । आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ॥ २६ परं कवीनामाधारं समाप्तं च यथाक्रमम् । अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥ २७ आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् । प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ ॥ २८ रथ्यासु राजमार्गेषु ददर्श भरताप्रजः । स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ ॥ २९ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ ३० उपोपविष्टः सचिवैर्भ्रातृभिश्च परंतपः । दृष्ट्वा तु रूपसंपन्नौ तावुभौ नियतस्तदा ॥ ३१ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा । श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ॥ ३२ विचित्रार्थपदं सम्यग्गायकौ समचोदयात् । तौ चापि मधुरं व्यक्तं स्वञ्चितायतनिःस्वनम् ॥ ३३