पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८८ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

ततस्तेऽञ्जसंकाशा गिरेस्तस्मान्महाजवाः । तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः॥ अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः । तप्तहेममहाभासस्तस्मात् कोट्यो दश च्युताः ॥२१ कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणामुपागमन् ॥ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः । तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद्वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ क्षीरोदवेलानिलयास्तमालवनवासिनः । नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ।। २५ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महौजसः । अगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ये तु त्वरयितुं याता वानराः सर्ववानरान् । ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम् ।। तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा । सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ।। अन्ननिष्यन्दजातानि मूलानि च फलानि च । अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ।। २९ तदन्नसंभवं दिव्यं फलं मूलं मनोहरम् । यः कश्चित् सकृदश्नाति मासं भवति तर्पितः ।। सानि मूलानि दिव्यानि फलानि च फलाशनाः । औषधानि च दिव्यानि जगृहुर्हरियूथपाः ।। ३१ तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च । आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ।। ३३ ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ।। ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः । तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ।। सर्वे परिगताः शैलाः समुद्राश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह तत् प्रीतस्तेषां सर्वमुपायनम् ।। ३७ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे कपिसेनासमानयनं नाम सप्तत्रिंशः


अष्टात्रिंशः सर्गः रामसमीपगमनम् प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ।। विसर्जयित्वा स हरीञ्शूरांस्तान् कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ॥ किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते । तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ ४ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह । एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा तारामन्याश्च योषितः ॥