पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः सर्गः १८५

न नूनमिक्ष्वाकुवरस्य कार्मुकच्युताञ्शरान् पश्यसि वज्रसंनिभान् । ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे सुग्रीवतर्जनं नाम चतुस्त्रिंशः सर्गः

पञ्चत्रिंशः सर्गः तारासमाधानम् तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवीलक्ष्मणं तारा ताराधिपनिभानना ।। नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ।। नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवाकृतकथो धीर न जिह्वाश्च कपीश्वरः॥ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे । रामप्रसादान् कीर्ति च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमां मां च परंतप । सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः । ६ घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ।। स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ।। देहधर्म गतस्यास्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ।। ९ न च रोषवशं तात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ।। १० सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता । महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ।। १२ रुमां मां कपिराज्यं च धनधान्यवसूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ।। १३ समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ।। शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् । अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च । १५ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मेथिली हृता॥१६ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ! रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तः श्रवणात्तद्ब्रवीम्यहम् ॥ १८

त्वत्सहायनिमित्तं वै प्रेषिवा हरिपुंगवाः । आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ।। १९