त्रयस्त्रिंशः सर्गः ४८३
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् । यत् कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् ।
तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ।।
न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः ।
त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम् ।।
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे ।
कस्त्वद्विधः कोपवशं हि गच्छेत् सत्त्वावरुद्धस्तपसः प्रसूति ॥
जानामि रोपं हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् ।
जानामि कार्यं त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् |
तच्चापि जानामि यथाविषह्यं
बलं नरश्रेष्ठ शरीरजस्य ।
जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य॥ न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा भन्युवशं प्रपन्नः । न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ।। तं कामवृत्तं मम संनिकृष्टं कामाभियोगाच्च निवृत्तलज्जम् । क्षमस्व तावनत् परवीरहन्तस्त्वद्भ्रातरं वानरवंशनाथम् ॥ महर्षयो धर्मतपोऽभिकामाः कामानुकामाः प्रतिबद्धमोहाः । अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ।। इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् । पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ।। उद्योगस्तु चिराज्ञाप्तः सुग्रीवेण नरोत्तम । कामस्यापि विधेयेन तवार्थप्रतिसाधने ।। आगता हि महावीर्या हरयः कामरूपिणः । कोटीशतसहस्राणि नानानगनिवासिनः । तदागच्छ महाबाहो चारित्रं रक्षितं त्वया । अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः । प्रविवेश महाबाहुरभ्यन्तरमरिंदमः ॥ ततः सुग्रीवमासीनं काञ्चने परमासने । महाहस्तिरणोपेते ददर्शादित्यसंनिभम् ।। दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् । दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ॥