पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः ९

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥ ३३ राघवाश्वासनं चैव मणिनिर्यातनं तथा । संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥ ३४ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ ३५ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् । रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ ३६ विभीषणाभिषेकं च पुष्पकस्य निवेदनम् । अयोध्यायाश्च गमनं भरतेन समागमम् ॥ ३७ रामाभिषकाभ्युदयं सर्वसैन्यविसर्जनम । स्वराज्यरञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ ३८ अनागतं च यत्किंचिद्रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे काव्यसङ्क्शेपो नाम तृतीयः सर्गः

चतुर्थः सर्गः अनुक्रमणिका

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥ १ चतुर्विशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ॥ २ कृत्वापि तन्महाप्राज्ञ: सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥ ३ तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ ५ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ ७ पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ॥ ८ रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभिश्च संयुक्तं काव्यमेतदगायताम् ॥ ९ तौ तु गान्धर्तवतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ । भ्रातरौ त्वरसंपन्नावश्विनाविव रूपिणौ ॥ १० रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ ॥ ११ तो राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचो विधेयं तत् सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२