पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशः सर्गः १७३

पुष्पितांश्चासनान् दृष्टा काञ्चनानिव निर्मलान् । कथं सा रमते बाला पश्यन्ती मामपश्यती ॥८
या पुरा कलहंसानां स्वरेण कलभाषिणी । बुध्यते चारसर्वाङ्गी साद्य मे बुध्यते कथम् ॥
निःस्वनं चक्रवाकाणां निशम्य सहचारिणाम । पुण्डरीकविशालाक्षी कथमेषा भविष्यति ।। १०
सरांसि सरितो वापीः काननानि वनानि च । तां विना मृगशामाक्षी चरनाद्य मुख लभे ॥ ११
अपि तां मद्वियोगाश्च सौकुमार्याश्च भामिनीम् । सुदूर पीडयेत् कामः शरद्गुणनिरन्तरः ॥ १२
एवमादि नरश्रेष्ठो विललाप नृपात्मजः । विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरान् । १३
ततश्चन्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवालक्ष्मणोऽप्रजम ।। १४
तं चिन्तया दुःसहया परीतं विसंझमेकं विजने मनस्वी।
भ्रातुर्विपादात् परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम ।।
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन ।
अयं ह्रिया संहियते समाधिः किमन्न योगेन निवर्तते न'।
१६
क्रियाभियोग मनमः प्रमादं समाधियोगानुगतं च कालभ ।
महायमामर्थ्यमदीनसत्व स्वकर्महेतुं च कुरुष्व हेतुम् ।।
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ।
न चाग्निचुडां ज्वलितामुपेत्य न दह्यते वीर वराह कश्चित ॥
मलक्षणं लक्ष्मणमप्रधृष्यं स्वभावज वाक्यमुवाच रामः ।
हितं च पश्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ।।
निःसंशयं कार्यमवेक्षितव्य क्रियाविशेषो मनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम ॥
अथ पद्मपलाशाक्षी मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१
नर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ।।
स्निग्धगम्भीरनि?पाः शैलद्रुमपुरोगमाः । विमृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ।। २३
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः । चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः।।
घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तः सहसानघ । २६