पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशः सर्गः १७१

एकोनत्रिंशः सर्गः हनुमत्प्रतिबोधनम् समीक्ष्य विमलं व्योम गतविद्युठलाहकम् । सारसारवसंघुष्ट' रम्यज्योत्स्नामुलेपनम् ।। समृद्धार्थ च सुग्रीव मन्दधर्मार्थसंग्रहम् । अत्यर्थमसतां मार्गमेकान्तगतमानसम ॥ निवृत्तकार्य सिद्धार्थ प्रमदामिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानपि मनोरथान् ।। खां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरानं कृतार्थ विगतज्वरम् ।। क्रीडन्तमिव देवेन्द्रं नन्दनेऽप्सरसां गणैः । मन्त्रिपु न्यस्तकार्य च मन्त्रिणामनवेक्षकम् ॥ उत्सन्नराज्यसंदेश कामवृत्तमवस्थितम् । निश्चितार्थोऽर्थतत्वज्ञः कालधर्मविशेषविन् । प्रसाध वाक्यैर्मधुरै हेतुमद्भिर्मनोरमैः । वाक्यविद्वाक्यतत्त्वज्ञ हरीशं मारुनात्मजः ॥ हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमन् । प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ॥ हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् । राज्यं प्राप्तं यशश्चैव कौली श्रीरपि वर्धिता॥ ९ मित्राणां संग्रहः शेपस्तं भवान् कर्तुमर्हति । यो हि मित्रेषु कालमः सततं साधु वर्तते ॥ तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते । यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ ११ समवेतानि सर्वाणि स राज्यं महदश्नुते । तद्भवान् वृत्तसंपन्नः स्थिसः पथि निरत्यये । १२ मित्रार्थमभिनीतार्थ यथावत् कर्तुमर्हति । सत्यज्य सर्वकर्माणि मित्रार्थे यो म वर्तते ।। १३ संभ्रमाद्विकृतोत्साहः सोऽनर्थनावरुध्यते । यस्तु कालव्यतीतेपु मित्रकार्यमरिंदम ।। १४ म कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते । यदिदं वीर कार्य नो मित्रकार्यमरिंदम ।। १५ कियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् । न च कालमतीत ते निवेदर्यात कालावत् ।। त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वंशानुगः । कुलस्य हेतुः रफीतस्य दीर्घबन्धुश्च राघवः ॥ १७ अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः । तस्य त्वं कुरु वै कार्य पूर्व तेन कृतं तव ॥ १८ हरीश्वर हरिश्रेष्ठानाझापयितुमईसि । न हि तावद्भवेत् कालो व्यतीतश्चोदनाहते ।। १९ चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः । अकर्तुरपि कार्यस्य भवान कर्ता हरीश्वर ।। किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च । शक्तिमानपि विक्रान्तो वानरक्षगणेश्वर ।।