पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

जन्म रामस्य सुमहद्गीर्यं सर्वानुकूलताम् । लोकस्य क्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० नानाचित्रकथाश्चान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ रामरामविवादं च गुणान् दाशरथेस्तथा । तथा रामाभिषेकं च कैकेय्या दुष्टभावताम् ॥ १२ विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकविलापं व परलोकस्य चाश्रयम् ॥ १३ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ १४ गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ वास्तुकर्मविवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् । अनसूयासहास्यां च अङ्गरागस्य चार्पणम् ॥ १८ दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ २० राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ २१ शबरीदर्शनं चैव हनुमद्धर्शनं तथा । विलापं चव पम्पायां राघवस्य महात्मनः ॥ २२ ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥ २४ कोपं राधवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चापि संपातेश्चैव दर्शनम् ॥ २६ पर्वतारोहणं चैव सागरस्य च लङ्गनम् । समुद्र वचनाच्चैव मैनाकस्यापि दर्शनम् ॥ २७ राक्षसीतर्जनं चैव छायाप्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ २८ रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् । आपानभूमिगमनमवरोधस्य दर्शनम् ॥ २९ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ ३० अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥ ३१ मणिप्रदानं सीतायाः वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किंकराणां निर्बहणम् ॥ ३२