पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चविंशः सर्गः ४११

न कर्ता कस्यचित् कश्मिनियोगे चापि नेश्वरः । स्वभावे वर्तते लोकस्तस्य कालः परायणम् ।। न कालः कालमत्येति न कालः परिहीयते । स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ ६ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः 1न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ।। किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ इतः स्वां प्रकृति वाली गतः प्राप्तः क्रियाफलम । धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ।। ९ स्वधर्मस्य च संयोगाजितस्तेन महात्मना । स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ।। एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः । तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा । अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२ कृरु त्वमस्य सुप्रीव प्रेतकार्यमनन्तरम । ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ॥ १३ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च । चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ १४ समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् । मा भूर्वालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम ।। अङ्गदम्त्वानयेन्माल्यं वस्त्राणि विविधानि च । घृतं तैलमथो गन्धान यच्चात्र समनन्तरम् ।। १६ त्वं तार शिबिकां शिघ्रमादायागच्छ संभ्रमात् । त्वरा गुणवती युक्ता यस्मिन् काले विशेषतः।। १७ सजीभवन्तु प्लवगाः शिबिकावइनोचिताः । समर्था बलिनश्चैव निहरिष्यन्ति वालिनम् ॥ १८ एषमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः । तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ।। १९ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिविकासक्तमानसः ।। आदाय शिबिकां तारः स तु पर्यापतत् पुनः । वानरैरुह्यमानां तां शुरैरुद्वहनोचितः ।। २१ दिव्यां भद्रासनयुतां शिविकां स्यन्दनोपमाम् । पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ।। आचितां चित्रपतीभिः सुनिविष्टां समन्ततः । विमानमिव सिद्धानां जालवातायनान्विताम् ॥ २३ सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा । दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ।। वराभरणहारैश्च चित्रमाल्योपशोभिताम् । गुहागहनसंछनां रक्तचन्दरूषिताम् ।। पुष्पौधैः समभिच्छमां पद्ममालाभिरेव च । तरुणादित्यवर्णाभिर्धाजमानाभिरावृताम् ।। २६ ईशी शिविकां दृष्ट्वा रामो लक्ष्मणमत्रवीत् । क्षिप्रं विनीयतां वाली प्रेतकार्य विधीयताम् ।। २७ ततो वालिनमुद्यम्य सुग्रीवः शिक्षिकां तदा । आरोपयत विक्रोशनङ्गदेन सहैव तु ॥ आरोग्य शिबिकां चैव वालिनं गतजीवितम् । अलंकारैश्च विविधैर्माल्यैर्ववैश्च भूषितम् ॥ २९ अज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः । औलदेहिकमार्यस्य क्रियतामनुरूपतः ।। ३० विश्राणयन्तो रत्नानि विविधानि बहून्यपि ! अप्रतः प्लवगा यान्तु शिविका समनन्तरम् ।। ३१