पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः सर्गः १५७

न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव ।
हृता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीजिहाति मामिह ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसदसिकाया सहितायाम् किष्किन्धाकाण्डे अङ्गदाभिवादन नाम त्रयोविंशः सर्ग: चतुर्विंशः सर्गः सुग्रीवताराश्वासनम्

तां त्वश्रुवेगेन दुरासदेन त्वभिप्लुनां शोकमहार्णवेन ।
पश्यस्तदा बाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेथे ॥
स बाष्पपूर्णन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।
जगाम रामस्य शनैः समीपं भृत्यैर्वृतः संपरिदूयमानः ॥
सतं समासाद्य गृहीतचापमुदात्तमाशीविपतुल्यवाणम।
यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥

यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ।
ममाद्य भोगेपु नरेन्द्रपुत्र मनो निवृनं सह जीवितेन' ।।
अस्यां महिध्यां तु भृशं रुदत्यां पुरे च विक्रोशति दुःखतप्ते ।
हतेऽप्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ।।
क्रोधादमर्यादतिविप्रधर्षाद्भातुर्वधो मेऽनुमतः पुरस्तात् ।
हते विदानी हरियुथपेऽस्मिन सुतीब्रमिस्वाफुफुमार तप्ये ॥
श्रेयोऽद्य मन्ये मम शैलमुख्ये तरिमन्निवासश्विरमृश्यमूके ।
यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः॥
न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच ।
तस्यैव तद्राम वचोऽनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ।।
भ्रावा कथं नाम महागुणस्य भ्रातुर्षधं राघव रोचयेत ।
राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् कामपुरस्कृतः सन् ॥
क्यो हि मे मतो नासीत् स्वमाहात्म्याव्यतिक्रमात् । ममासीद्बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥१०