पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशः सर्गः ४५५

राघवस्य च ते कार्य कर्तव्यमविशल्या । स्यादधर्मो एकरणे त्वां च हिंस्याद्विमानितः ॥
इमां च मालामाधत्स्व दिव्यां सुग्रीव काश्चनीम् । उदारा श्रीः स्थिता यस्यां संप्रजायान्मृते मयि ॥
इत्येवमुक्तः सुप्रीवो वालिना भ्रातृसौहदात् । हर्ष त्यक्त्वा पुनींनो प्रहप्रस्त इवोडुराट् ।।
तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः । जत्राह सोऽभ्यनुज्ञातो मालां वां चैव काञ्चनीम् ॥१८
वां माल काञ्चनी दत्त्वा वाली दृष्ट्रात्मजं स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥१९
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये । सखदुःखसहः काले सुप्रीववशगो भव ।।
यथा हि त्वं महाबाहो लालितः सततं मया । न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ २१
मास्यामिर्गतं गच्छा शत्रुभिररिंदम । भर्तुरर्थपरो दान्तः सुग्रीषषशगो भव ॥
२२
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते । उमय हि महान् दोषस्तस्मादन्तरदृग्भव ।।
इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् । विवृतैर्दशनीमैर्बभूयोकान्तजीवितः ॥
नतो विचुकुशुस्तत्र वानरा इतयूथपाः। परिदेवयमानास्ते सर्वे प्लवगपुंगवाः ।।
२५
किष्किन्धा ह्यद्य शून्यासीत् स्वर्गते वानराधिपे । उद्यानानि च शून्यानि पर्वताः काननानि च ।।२६
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः। यस्योद्योगेन महता काननानि वनानि च ॥
पुष्पौधेणानुबध्यन्ते करिष्यति तदद्य कः । येन दत्तं महधुद्धं गन्धर्वस्य महात्मनः॥
गोलभस्य महाबाहोर्दश वर्षाणि पश्च च । नैव रात्रौ न दिवसे तयुद्धमुपशाम्यति ।।
ततस्तु षोडशे वर्षे गोलभो विनिपातितः । तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान् । ३०
सर्वाभयकरोऽस्माकं कथमेष निपातितः ॥
हते तु वीरे प्वगाधिपे वदा प्लवङ्गमास्तत्र न शर्म लेभिरे।
वनेचराः सिंयुते महावने यथा हि गावो निहते गवां पतौ ।।
३१
ततस्तु सारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा।
जगाम भूमि परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥
३२

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे वाल्यनुशासनं नाम द्वाविंशः सर्गः प्रयोविंशः सर्गः अङ्गदाभिवादनम्

सतः समुपजियन्ती कपिराजस्य तन्मुखम् । पतिं लोकश्रुता' तारा मृतं वचनमब्रवीत् ॥
शेषे त्वं विषमे दुःखमनुक्त्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ॥