पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

संततिश्च यथा रष्टा कृत्यं यचापि सांप्रतम् । राक्षस्तत् क्रियतां तावदेष कालस्य निश्चयः।।
संस्कार्यों हरिराजश्च अङ्गवश्वाभिषिच्यताम् । सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥
सा तस्य वचनं श्रुत्वा भरीव्यसनपीडिता । अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥
मजदप्रतिरूपाणां पुत्राणामेकतः शतम् । हत्तस्याप्यस्य वीरस्य गात्रसंश्लेषणं घरम् ॥
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुप्रीवः सर्वकार्येष्वनन्तरः ।।
न होषा बुद्धिरास्थया हनुमन्नादं प्रति । पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ।।
नह मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् किष्किन्धाकाण्ड हनुमदाश्वासनं नाम एकविंशः सर्गः द्वाविंशः सर्गः बाल्यनुशासनम्

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छसन् । आदावेव तु सुप्रीवं ददर्श त्वात्मजाप्रतः ॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ।।
सुपीव दोषेण न मां गन्तुमर्हसि किल्बिषात् । कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३
युगपद्विहितं तात न मन्ये सुखमावयोः । सौहार्द भ्रातयुक्तं हि तदिदं जातमन्यथा'।
प्रतिपद्य त्वमथैव राज्यमेषां वनौकसाम् । मामप्यचैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥
जीवितं च हि राज्यं च श्रिय च विपुलामिमाम् । प्रजहाम्येष वै तूर्ण महबागर्हितं यशः॥
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः । यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ।।
सुखाई सुखसंवृद्धं बालमेनमबालिशम् । बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ।।
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् । मया हीनमहीनार्थ सर्वतः परिपालय ॥
त्वमेवास्य हि पाता च परित्राता च सर्वतः। भयेष्वभयदश्चैव यथाहं प्रवगेश्वर ।। १०
एष तारात्मजः श्रीमास्त्वया तुल्यपराक्रमः । रक्षसां तु वधे तेषामप्रसस्ते भविष्यति । ११
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ १२
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये । औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १३
यदेषा साध्विति घूयात् कार्य तन्मुक्तसंशयम् । न हि तारामतं किंचिदन्यथा परिवर्तते ॥ १४