पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः सर्गः ४५३

रामेण हि महत् कर्म कृतं त्वामभिनित्रता । आनृण्यं च गतं तस्य सुप्रीवस्य प्रतिश्रवे।।
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे । भुझ्व राज्यमनुद्विमः शस्तो भ्राता रिपुस्तव ॥ २१
किं मामेवं विलपती प्रेम्णा त्वं नाभिभाषसे । इमाः पश्य वरा बहीर्भार्यास्ते वानरेश्वर ॥ २२
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः । परिगृह्याजदं दीनं दुःखार्ताः परिचुक्रुशुः ।। २३
किमङ्गदं साजदधीरबाहो विहाय यास्यद्य चिरप्रवासम् ।
न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ।।
किमप्रियं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते ।
सहादा मामपहाय वीर यत् प्रस्थितो दीर्घमितः प्रवासम ।।
२५
यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो।
क्षमस्व मे तद्धरिवंशनाथ प्रजामि मूर्धा तव वीर पादौ ।
२६
तथा तु तारा करुण रुदन्ती भर्तुः समीपे सह वानरीभिः ।
व्यवस्थत प्रायमुपोपवेष्टुमनिन्द्यवर्णा भूवि यत्र वाली ॥

हत्याः श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकाया संहितायाम् किष्किन्धाकाण्डे ताराविलापो नाम विंशः सर्गः एकविंशः सर्गः हनुमदाश्वासनम्

ततो निपतितां तारां फयुतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः ।।
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् । अव्यप्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥
शोच्या शोचसि के शोच्य दीनं दीनानुकम्पसे । कस्य को वा नु शोच्योऽस्ति देहेऽस्मिन्बुबुदोपमे॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ।।
जानास्यनियतामेवं भूतानामागतिं गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डितेनेहलौकिकम् ।।
यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च । वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ।।
यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो धर्मजितां भूमि नैनं शोचितुमर्हसि ॥
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । इदं हर्यक्षराज्यं च त्वत्सनाथमनिन्दिते ।।
वाविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥