पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ श्रीमदास्मीकिरामायणे किष्किन्धाकाण्डे

रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः । तामवेक्ष्य तु सुमीवः क्रोशन्ती कुरीमिव ।
विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम् ।।

इत्या भीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुर्विशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे तारागमनं नाम एकोनविंशः सर्गः विंशः सर्गः ताराविलापः

रामचापविसृष्टेन शरेणान्तकरेण तम् । दृष्टा विनिहतं भूमौ तारा ताराधिपानना ॥
सा समासाद्य भर्तारं पर्यषजत भामिनी । इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ।।
बानरेन्द्र महेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥
रणे दारुण विक्रान्त प्रवीर प्लवतां वर । किं दीनां मां पुरोभागामद्य त्वं नाभिभाषसे ।।
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥
अतीव खलु ते कान्ता वसुधा वसुधाधिप । गतासुरपि यां गात्रैमा विहाय निषेवसे ।।
व्यकमन्या त्वया वीर धर्मतः संप्रवर्तता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ।।
यान्यस्माभिस्त्वया साध बनेषु मधुगन्धिषु । विद्वतानि त्वया काले तेषामुपरमः कृतः ।।
निरानन्दा निराशाहं निमग्मा शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ।
हृदयं सुस्थिरं मन्ये दृष्ट्वा विनिहतं पतिम् । यन्न शोकाभिसंवतं स्फुटतेऽद्य सहस्रधा ।।
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ।। ११
निःश्रेयसपरा मोहात्त्वया चाहं विगहिता । येषात्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ १२
रूपयौवनमानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ।। १३
कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाधेनावपन्नोऽसि सुग्रीवस्यावशो वशम ॥ १४
अस्थाने वालिनं हत्वा युद्धधमानं परेण च । न संतप्यति काकुत्स्थः कृत्वा कर्म सुगर्हितम् ।। १५
वैधव्यं शोकसंतापं कृपणं कृपणा सती ! अदुःखोपचिला पूर्व वर्तयिष्याम्यनाथवत् ॥
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः । वत्स्यते कामवस्था मे पितृव्ये क्रोधमूर्छिते ।।
कुरुध्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । दुर्लभं दर्शनं वत्स तव तस्य भविष्यति । १८
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च । मूर्ध्नि चैन समानाय प्रषासं प्रस्थितो बसि ॥