पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः सर्गः ४५१

त भार्या वाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं सारा शुश्राव वालिनम् ।। ३ सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं त्रस्ता मृगीव गिरिगहरात् ॥ ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः। ते सकार्मुकमालोक्य रामं अस्ताः प्रदुद्रुवुः सा ददर्श ततजस्तान् हरीनापततो द्रुतम् । यूथादिव परिभ्रष्टान् मृगानिहतयूथपान् ।। तानुवाच समासाद्य दुःखितान् दुःखिता सती । रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः ।। वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुसंत्रस्ताः कस्माद्वथ दुर्गताः ॥ राज्यहेतोः स चेद्धाता भ्रात्रा रौद्रेण पातितः । रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः ।। कपिपल्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ॥ जीवपुत्रे निवर्तव पुत्र रक्षस्व चागदम् । अन्तको रामरूपेण हत्वा नयति वालिनम् ।। क्षिप्तान वृक्षान् समाविध्य विपुलाश्च शिलास्तथा । वाली बासमैर्षाणै रामेण विनिपातितः॥ १२ अभिद्रुतमिदं सर्व विद्रुतं प्रसृतं बलम् । तस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ।। १३ रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम् । पदरथं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ।। अथवारुचित स्थानमिह ते रुचिरानने । आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः । लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् ॥१६ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना । आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ पुत्रेण मम किं कार्य किं राज्येन किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिन्नती ॥ आवजन्ती दर्शाथ पर्ति निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ क्षेप्तारं पर्वतेन्द्राणां वाणामिव वासवम् । महावातसमाविष्टं महामेघौधनिःस्वनम् शकतुल्यपराक्रान्तं पृष्ट्वेवोपरतं धनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ।। शार्दूलेनामिषस्यार्थे मृगराज यथा हतम् । अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा । अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम् ।। रामं रामानुजं चैव भर्तश्चैवानुजं शुभम् । तानतीत्य समासाद्य भर्तारं निहतं रणे ।। २६ समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह । सुप्त्वेव पुनरुत्थाय आर्यपुत्रेति शोचती ॥