पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ श्रीमद्वाल्मीकिरामायणे बालकाण्डे

वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्रिणा च हितेन वै ॥ १२ तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १४ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। १५ तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १६ चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् । शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ १७ पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १८ शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १९ सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ २० भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २१ स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २२ आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् ॥ २३ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलि: प्रणतो भूत्वा तस्थौ परमविस्मितः ॥ २४ पूजयामास तं देवं पाद्यावर्व्यासनवन्दनैः। प्रणम्य विधिवच्चैनं पृष्ट्वा चैवाप्यनामयम् ॥ २५ अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ २६ ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ २७ तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ॥ २८ यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेवं मुहुः क्रौञ्चीर्मुपश्लोकमिमं पुनः ॥ २९ जगावन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहस्य मुनिपुंगवम् ॥ ३० श्लोक एव त्वया बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥ ३१ रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो गुणवतो लोके रामस्य धीमतः ॥ ३२ वृत्तं कथय वीरस्य यथा ते नारदाच्छृतम् । रहस्यं च प्रकाशं च यद्धृत्तं तस्य धीमतः ॥ ३३ रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ॥ ३४