पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्ग

किंवत्यसि सता मध्ये कृत्वा कर्म जुगुप्सितम् । राजहा ब्रह्महा गोप्रश्चोरः प्राणिवधे रतः ।। ३४
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः । सूचकश्च कदर्यश्च मित्रनो गुरुतल्पगः॥
लोकं पापात्मनामेते गच्छन्त्यत्र न संशयः । अधार्य चर्म मे सदी रोमायस्थि च वर्जितम् ।। ३६
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः । पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्त्रेण रापत्र । ३७
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः । चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः ॥३८
अभक्ष्याणि च मांसानि सोऽहं पश्चनखो हतः । तारया वाक्यमुक्तोऽहं सत्यं सर्वशया हितम् ॥३९
तदतिक्रम्ब मोहेन कालस्य वशमागतः । त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ॥
प्रमदा शीलसंपन्ना धूर्तेन पतिना यथा । शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः॥ ४१
कथं दशरथेन त्वं जातः पापो महात्मना । छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना।।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना । अशुभं चाप्ययुक्त च सतां चैव विगहितम् ।।
वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः । उदासीनेपु योऽस्मासु विक्रमस्ते प्रकाशितः।।
अपकारिषु तं राजन्न हि पश्यामि विक्रमम् । दृश्यमानस्तु युध्येथा मया यदि नृपात्मज ॥
अद्य वेवस्वतं देवं पश्येस्त्वं निहतो मया। त्वयादृश्येन तु रणे निहतोऽहं दुरासदः॥ ४६
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः । मामेव यदि पूर्व त्वमेतदर्थमचोदयः ।।
मैथिलीमहमेकाला तव चानीतवान् भवेः । सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया ।।
कण्ठे बध्वा प्रदद्यां तेऽनिहतं रावणं रणे । न्यस्ता सागरतोये वा पाताले वापि मैथिलीम् ।। ४९
आनयेयं तवादेशाच्छेतामश्वतरीमिव । युक्तं यत् प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ।।
अयुक्तं यदधर्मेण त्वयाहं निहतो रणे । काममेवंविधो लोकः कालेन विनियुज्यते ॥ ५१
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥
इत्येवमुक्त्या परिशुष्कवक्त्रः शराभिघाताब्यथितो महात्मा ।
समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभूवामरराजसू नुः ।।
५२

इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्तिकायां संहिवायाम् किष्किन्धाकाण्डे समाधिपो नाम सप्तदशः सर्गः