पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः १४५

तौ शोणिताती युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्देस्तर्जयानौ परस्परम् ।।
हीयमानमथापश्यत् सुग्रीव वानरेश्वरम् । प्रेक्षमाणं विशश्चैव राघवं च मुहुर्मुहुः ।।
ततो रामो महातेजा आतं दृष्ट्रा हरीश्वरम् । शरं च वीक्षते वीरो वालिनो वधकारणात् ।।
तवो धनुषि संधाय शरमाशीविषोपमम् । पूरयामास तथा कालचक्रमिवान्तकः ।।
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर्मुगाश्चैव युगान्त इव मोहिताः ॥
मुक्तस्तु वननिर्घोषः प्रदीप्ताशनिसंनिभः । राघवेण महाबाणो वालिबक्षसि पातितः ॥
ततस्तेन महातेजा वीर्योत्सिकः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ।।
इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको बिचेतनः ॥
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं सधूममनि मुखतो यथा हरः ।।
भयोक्षितः शोणिततोयविनवैः सुपुष्पिताशोक इवानिलोद्धतः ।
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत् क्षितिं गतः ।।

इत्या भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिका संदितायाम् किष्किन्धाकाण्डे वालिसंहारो नाम षोडशः सर्गः रामाधिक्षेपः

सतः शरेणामिहतो रामेण रणकर्कशः। पपात सहसा वाली निकृत्त इव पादपः ।।
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतहेवराजस्य मुक्तरश्मिरिव ध्वजः ॥
तरिमनिपतिते भूमौ वानराणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी ॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ।।
शवदत्ता वरा माला काञ्चनी वभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ।।
स तया मालया वीरो हैमया हरियूथपः । सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ।।
वस्य माला च देहश्च मर्मघाती च यः शरः। विधेव रचिता लक्ष्मीः पतितस्यापि शोमते ।।
पदकं तस्य वीरस्य स्वर्गमार्गप्रभावनम् । रामबाणासनोरिक्षप्तमावहत् परमां गतिम् ।।
तथा पतित संख्ये गतार्चिषमिवानलम् । बहुमान्य च ते वीरं वीक्षमाणं शनैरिव ।।